ईशोपनिषद

From Jatland Wiki
Jump to navigation Jump to search

अथ ईशोपनिषदः


ईशावास्यं इदं सर्वं यत् किञ्च जगत्यां जगत |

तेन त्यक्तेन भुञ्जिथाः मा गृधः कस्य स्विद् धनम्||१||


कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः |

एवं त्वयि नान्यथेतो स्ति न कर्म लिप्यते नरे||२||


असुर्या नाम ते लोका अंधेन तमसा वृताः |

ता स्ते प्रेत्याभिगछन्ति ये के चात्महनो जनाः|| ३ ||


अनेजदैकं मनसो जवीयो नैनद्देवा आप्नुवन पूर्वमर्षत |

तद्धावतो न्यानत्येति तिष्ठत तस्मिन्नपो मातरिश्वा दधाति ||४||


तदेजति तन्नैजति तद्दूरे तद्वन्तिके |

तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः||५||


यस्तु सर्वाणि भूतान्यात्मनेवानुपश्यति |

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते||६||


यस्मिन्सर्वाणि भूतानि आत्मैवाभूद विजानतः |

तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ||७||


स पर्यगाच्छक्रमकायव्रणम स्नाविर शुद्धमपापविद्धम |

कविर्मनीषी परिभुः स्वयंभूर्याथातत्थ्यतो र्थान व्यदधाच्छाश्वतीभ्यहः समाभ्यः ||८||


अन्धं तमः प्रविशन्ति ये विद्यामुपासते |

ततो भूय इव ते तमो य उ विद्याया रताः ||९||


अन्यदेवाहुर्विद्यया न्यदेवाहुर्विद्यया |

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे||१०||


विद्यां चाविद्यां च यस्तद वेदोभयम सह |

अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते||११||


अन्धं तमः प्रविशन्ति ये सम्भूतिमुपासते |

ततो भूय इव ते तमो य उ संभूत्या रताः ||१२||


अन्यदेवाहुः संभवादन्यदाहुरसंभवात|

इति शुश्रुम धीराणां ये नस्तद विचचिक्षिरे ||१३||


संभूतिं च विनाशं च यस्तद वेदोभयम सह |

विनाशेन मृत्युम तीर्त्वा सम्भुत्या मृतमश्नुते||१४||


हिरण्यमयेंन पात्रेण सत्यस्यापिहितं मुखं |

तत्वं पूषन्नपावृणु सत्यधर्माय द्रृष्टये||१५||


पूषन्नेकर्षे यम् सूर्य प्राजापत्य व्यूह रश्मीन समूह |

कल्याणतमं तत्ते पश्यामि यो सौ पुरुषः सो हमस्मि||१६||


वायुर्निलममृतमथेदम भस्मानतम शरीरम |

ॐ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर ||१७||


अग्ने नय सुपथा राये अस्मान विश्वानी देव वयुनानि विद्वान्|

युयोध्यस्म ज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम||१८||


ॐ पूर्णमदः पूर्णमिदम पूर्णात्पूर्णमुदच्यते|

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते||


||ॐ शान्तिः शान्तिः शान्तिः ||


External Links


Back to Resources / Arya Samaj Literature